rigveda/6/23/5

अस्मै॑ व॒यं यद्वा॒वान॒ तद्वि॑विष्म॒ इन्द्रा॑य॒ यो नः॑ प्र॒दिवो॒ अप॒स्कः। सु॒ते सोमे॑ स्तु॒मसि॒ शंस॑दु॒क्थेन्द्रा॑य॒ ब्रह्म॒ वर्ध॑नं॒ यथास॑त् ॥५॥

अस्मै॑ । व॒यम् । यत् । व॒वान॑ । तत् । वि॒वि॒ष्मः॒ । इन्द्रा॑य । यः । नः॒ । प्र॒ऽदिवः । अपः॑ । क॒रिति॑ कः । सु॒ते । सोमे॑ । स्तु॒मसि॑ । शंस॑त् । उ॒क्था । इन्द्रा॑य । ब्रह्म॑ । वर्ध॑नम् । यथा॑ । अस॑त् ॥

ऋषिः - भरद्वाजो बार्हस्पत्यः

देवता - इन्द्र:

छन्दः - त्रिष्टुप्

स्वरः - धैवतः

स्वर सहित मन्त्र

अस्मै॑ व॒यं यद्वा॒वान॒ तद्वि॑विष्म॒ इन्द्रा॑य॒ यो नः॑ प्र॒दिवो॒ अप॒स्कः। सु॒ते सोमे॑ स्तु॒मसि॒ शंस॑दु॒क्थेन्द्रा॑य॒ ब्रह्म॒ वर्ध॑नं॒ यथास॑त् ॥५॥

स्वर सहित पद पाठ

अस्मै॑ । व॒यम् । यत् । व॒वान॑ । तत् । वि॒वि॒ष्मः॒ । इन्द्रा॑य । यः । नः॒ । प्र॒ऽदिवः । अपः॑ । क॒रिति॑ कः । सु॒ते । सोमे॑ । स्तु॒मसि॑ । शंस॑त् । उ॒क्था । इन्द्रा॑य । ब्रह्म॑ । वर्ध॑नम् । यथा॑ । अस॑त् ॥


स्वर रहित मन्त्र

अस्मै वयं यद्वावान तद्विविष्म इन्द्राय यो नः प्रदिवो अपस्कः। सुते सोमे स्तुमसि शंसदुक्थेन्द्राय ब्रह्म वर्धनं यथासत् ॥५॥


स्वर रहित पद पाठ

अस्मै । वयम् । यत् । ववान । तत् । विविष्मः । इन्द्राय । यः । नः । प्रऽदिवः । अपः । करिति कः । सुते । सोमे । स्तुमसि । शंसत् । उक्था । इन्द्राय । ब्रह्म । वर्धनम् । यथा । असत् ॥