rigveda/6/21/7

अ॒भि त्वा॒ पाजो॑ र॒क्षसो॒ वि त॑स्थे॒ महि॑ जज्ञा॒नम॒भि तत्सु ति॑ष्ठ। तव॑ प्र॒त्नेन॒ युज्ये॑न॒ सख्या॒ वज्रे॑ण धृष्णो॒ अप॒ ता नु॑दस्व ॥७॥

अ॒भि । त्वा॒ । पाजः॑ । र॒क्षसः॑ । वि । त॒स्थे॒ । महि॑ । ज॒ज्ञा॒नम् । अ॒भि । तत् । सु । ति॒ष्ठ॒ । तव॑ । प्र॒त्नेन॑ । युज्ये॑न । सख्या॑ । वज्रे॑ण । धृ॒ष्णो॒ इति॑ । अप॑ । ता । नु॒द॒स्व॒ ॥

ऋषिः - भरद्वाजो बार्हस्पत्यः

देवता - इन्द्र:

छन्दः - निचृत्त्रिष्टुप्

स्वरः - धैवतः

स्वर सहित मन्त्र

अ॒भि त्वा॒ पाजो॑ र॒क्षसो॒ वि त॑स्थे॒ महि॑ जज्ञा॒नम॒भि तत्सु ति॑ष्ठ। तव॑ प्र॒त्नेन॒ युज्ये॑न॒ सख्या॒ वज्रे॑ण धृष्णो॒ अप॒ ता नु॑दस्व ॥७॥

स्वर सहित पद पाठ

अ॒भि । त्वा॒ । पाजः॑ । र॒क्षसः॑ । वि । त॒स्थे॒ । महि॑ । ज॒ज्ञा॒नम् । अ॒भि । तत् । सु । ति॒ष्ठ॒ । तव॑ । प्र॒त्नेन॑ । युज्ये॑न । सख्या॑ । वज्रे॑ण । धृ॒ष्णो॒ इति॑ । अप॑ । ता । नु॒द॒स्व॒ ॥


स्वर रहित मन्त्र

अभि त्वा पाजो रक्षसो वि तस्थे महि जज्ञानमभि तत्सु तिष्ठ। तव प्रत्नेन युज्येन सख्या वज्रेण धृष्णो अप ता नुदस्व ॥७॥


स्वर रहित पद पाठ

अभि । त्वा । पाजः । रक्षसः । वि । तस्थे । महि । जज्ञानम् । अभि । तत् । सु । तिष्ठ । तव । प्रत्नेन । युज्येन । सख्या । वज्रेण । धृष्णो इति । अप । ता । नुदस्व ॥