rigveda/6/19/9

आ ते॒ शुष्मो॑ वृष॒भ ए॑तु प॒श्चादोत्त॒राद॑ध॒रादा पु॒रस्ता॑त्। आ वि॒श्वतो॑ अ॒भि समे॑त्व॒र्वाङिन्द्र॑ द्यु॒म्नं स्व॑र्वद्धेह्य॒स्मे ॥९॥

आ । ते॒ । शुष्मः॑ । वृ॒ष॒भः । ए॒तु॒ । प॒श्चात् । आ । उ॒त्त॒रात् । अ॒ध॒रात् । आ । पु॒रस्ता॑त् । आ । वि॒श्वतः॑ । अ॒भि । सम् । ए॒तु॒ । अ॒र्वाङ् । इन्द्र॑ । द्यु॒म्नम् । स्वः॑ऽवत् । धे॒हि॒ । अ॒स्मे इति॑ ॥

ऋषिः - भरद्वाजो बार्हस्पत्यः

देवता - इन्द्र:

छन्दः - पङ्क्तिः

स्वरः - पञ्चमः

स्वर सहित मन्त्र

आ ते॒ शुष्मो॑ वृष॒भ ए॑तु प॒श्चादोत्त॒राद॑ध॒रादा पु॒रस्ता॑त्। आ वि॒श्वतो॑ अ॒भि समे॑त्व॒र्वाङिन्द्र॑ द्यु॒म्नं स्व॑र्वद्धेह्य॒स्मे ॥९॥

स्वर सहित पद पाठ

आ । ते॒ । शुष्मः॑ । वृ॒ष॒भः । ए॒तु॒ । प॒श्चात् । आ । उ॒त्त॒रात् । अ॒ध॒रात् । आ । पु॒रस्ता॑त् । आ । वि॒श्वतः॑ । अ॒भि । सम् । ए॒तु॒ । अ॒र्वाङ् । इन्द्र॑ । द्यु॒म्नम् । स्वः॑ऽवत् । धे॒हि॒ । अ॒स्मे इति॑ ॥


स्वर रहित मन्त्र

आ ते शुष्मो वृषभ एतु पश्चादोत्तरादधरादा पुरस्तात्। आ विश्वतो अभि समेत्वर्वाङिन्द्र द्युम्नं स्वर्वद्धेह्यस्मे ॥९॥


स्वर रहित पद पाठ

आ । ते । शुष्मः । वृषभः । एतु । पश्चात् । आ । उत्तरात् । अधरात् । आ । पुरस्तात् । आ । विश्वतः । अभि । सम् । एतु । अर्वाङ् । इन्द्र । द्युम्नम् । स्वःऽवत् । धेहि । अस्मे इति ॥