rigveda/6/19/2

इन्द्र॑मे॒व धि॒षणा॑ सा॒तये॑ धाद्बृ॒हन्त॑मृ॒ष्वम॒जरं॒ युवा॑नम्। अषा॑ळ्हेन॒ शव॑सा शूशु॒वांसं॑ स॒द्यश्चि॒द्यो वा॑वृ॒धे असा॑मि ॥२॥

इन्द्र॑म् । ए॒व । धि॒षणा॑ । सा॒तये॑ । धा॒त् । बृ॒हन्त॑म् । ऋ॒ष्वम् । अ॒जर॑म् । युवा॑नम् । अषा॑ळ्हेन । शव॑सा । शू॒सु॒ऽवांस॑म् । स॒द्यः । चि॒त् । यः । व॒वृ॒धे । असा॑मि ॥

ऋषिः - भरद्वाजो बार्हस्पत्यः

देवता - इन्द्र:

छन्दः - निचृत्त्रिष्टुप्

स्वरः - धैवतः

स्वर सहित मन्त्र

इन्द्र॑मे॒व धि॒षणा॑ सा॒तये॑ धाद्बृ॒हन्त॑मृ॒ष्वम॒जरं॒ युवा॑नम्। अषा॑ळ्हेन॒ शव॑सा शूशु॒वांसं॑ स॒द्यश्चि॒द्यो वा॑वृ॒धे असा॑मि ॥२॥

स्वर सहित पद पाठ

इन्द्र॑म् । ए॒व । धि॒षणा॑ । सा॒तये॑ । धा॒त् । बृ॒हन्त॑म् । ऋ॒ष्वम् । अ॒जर॑म् । युवा॑नम् । अषा॑ळ्हेन । शव॑सा । शू॒सु॒ऽवांस॑म् । स॒द्यः । चि॒त् । यः । व॒वृ॒धे । असा॑मि ॥


स्वर रहित मन्त्र

इन्द्रमेव धिषणा सातये धाद्बृहन्तमृष्वमजरं युवानम्। अषाळ्हेन शवसा शूशुवांसं सद्यश्चिद्यो वावृधे असामि ॥२॥


स्वर रहित पद पाठ

इन्द्रम् । एव । धिषणा । सातये । धात् । बृहन्तम् । ऋष्वम् । अजरम् । युवानम् । अषाळ्हेन । शवसा । शूसुऽवांसम् । सद्यः । चित् । यः । ववृधे । असामि ॥