rigveda/6/17/10

अध॒ त्वष्टा॑ ते म॒ह उ॑ग्र॒ वज्रं॑ स॒हस्र॑भृष्टिं ववृतच्छ॒ताश्रि॑म्। निका॑मम॒रम॑णसं॒ येन॒ नव॑न्त॒महिं॒ सं पि॑णगृजीषिन् ॥१०॥

अध॑ । त्वष्टा॑ । ते॒ । म॒हः । उ॒ग्र॒ । वज्र॑म् । स॒हस्र॑ऽभृष्टिम् । व॒वृ॒त॒त् । श॒तऽअ॑श्रिम् । निऽका॑मम् । अ॒रऽम॑नसम् । येन॑ । नव॑न्तम् । अहि॑म् । सम् । पि॒ण॒क् । ऋ॒जी॒षि॒न् ॥

ऋषिः - भरद्वाजो बार्हस्पत्यः

देवता - इन्द्र:

छन्दः - निचृत्त्रिष्टुप्

स्वरः - धैवतः

स्वर सहित मन्त्र

अध॒ त्वष्टा॑ ते म॒ह उ॑ग्र॒ वज्रं॑ स॒हस्र॑भृष्टिं ववृतच्छ॒ताश्रि॑म्। निका॑मम॒रम॑णसं॒ येन॒ नव॑न्त॒महिं॒ सं पि॑णगृजीषिन् ॥१०॥

स्वर सहित पद पाठ

अध॑ । त्वष्टा॑ । ते॒ । म॒हः । उ॒ग्र॒ । वज्र॑म् । स॒हस्र॑ऽभृष्टिम् । व॒वृ॒त॒त् । श॒तऽअ॑श्रिम् । निऽका॑मम् । अ॒रऽम॑नसम् । येन॑ । नव॑न्तम् । अहि॑म् । सम् । पि॒ण॒क् । ऋ॒जी॒षि॒न् ॥


स्वर रहित मन्त्र

अध त्वष्टा ते मह उग्र वज्रं सहस्रभृष्टिं ववृतच्छताश्रिम्। निकाममरमणसं येन नवन्तमहिं सं पिणगृजीषिन् ॥१०॥


स्वर रहित पद पाठ

अध । त्वष्टा । ते । महः । उग्र । वज्रम् । सहस्रऽभृष्टिम् । ववृतत् । शतऽअश्रिम् । निऽकामम् । अरऽमनसम् । येन । नवन्तम् । अहिम् । सम् । पिणक् । ऋजीषिन् ॥