rigveda/6/11/3
ऋषिः - भरद्वाजो बार्हस्पत्यः
देवता - अग्निः
छन्दः - निचृत्त्रिष्टुप्
स्वरः - धैवतः
धन्या॑ । चि॒त् । हि । त्वे इति॑ । धि॒षणा॑ । वष्टि॑ । प्र । दे॒वान् । जन्म॑ । गृ॒ण॒ते । यज॑ध्यै । वेपि॑ष्ठः । अङ्गि॑रसाम् । यत् । ह॒ । विप्रः॑ । मधु॑ । छ॒न्दः । भन॑ति । रे॒भः । इ॒ष्टौ ॥
धन्या । चित् । हि । त्वे इति । धिषणा । वष्टि । प्र । देवान् । जन्म । गृणते । यजध्यै । वेपिष्ठः । अङ्गिरसाम् । यत् । ह । विप्रः । मधु । छन्दः । भनति । रेभः । इष्टौ ॥