rigveda/6/1/9

सो अ॑ग्न ईजे शश॒मे च॒ मर्तो॒ यस्त॒ आन॑ट् स॒मिधा॑ ह॒व्यदा॑तिम्। य आहु॑तिं॒ परि॒ वेदा॒ नमो॑भि॒र्विश्वेत्स वा॒मा द॑धते॒ त्वोतः॑ ॥९॥

सः । अ॒ग्ने॒ । ई॒जे॒ । श॒श॒मे । च॒ । मर्तः॑ । यः । ते॒ । आन॑ट् । स॒म्ऽइधा॑ । ह॒व्यऽदा॑तिम् । यः । आऽहु॑तिम् । परि॑ । वे॒द॒ । नमः॑ऽभिः । विश्वा॑ । इत् । सः । वा॒मा । द॒ध॒ते॒ । त्वाऽऊ॑तः ॥

ऋषिः - भरद्वाजो बार्हस्पत्यः

देवता - अग्निः

छन्दः - विराट्त्रिष्टुप्

स्वरः - धैवतः

स्वर सहित मन्त्र

सो अ॑ग्न ईजे शश॒मे च॒ मर्तो॒ यस्त॒ आन॑ट् स॒मिधा॑ ह॒व्यदा॑तिम्। य आहु॑तिं॒ परि॒ वेदा॒ नमो॑भि॒र्विश्वेत्स वा॒मा द॑धते॒ त्वोतः॑ ॥९॥

स्वर सहित पद पाठ

सः । अ॒ग्ने॒ । ई॒जे॒ । श॒श॒मे । च॒ । मर्तः॑ । यः । ते॒ । आन॑ट् । स॒म्ऽइधा॑ । ह॒व्यऽदा॑तिम् । यः । आऽहु॑तिम् । परि॑ । वे॒द॒ । नमः॑ऽभिः । विश्वा॑ । इत् । सः । वा॒मा । द॒ध॒ते॒ । त्वाऽऊ॑तः ॥


स्वर रहित मन्त्र

सो अग्न ईजे शशमे च मर्तो यस्त आनट् समिधा हव्यदातिम्। य आहुतिं परि वेदा नमोभिर्विश्वेत्स वामा दधते त्वोतः ॥९॥


स्वर रहित पद पाठ

सः । अग्ने । ईजे । शशमे । च । मर्तः । यः । ते । आनट् । सम्ऽइधा । हव्यऽदातिम् । यः । आऽहुतिम् । परि । वेद । नमःऽभिः । विश्वा । इत् । सः । वामा । दधते । त्वाऽऊतः ॥