rigveda/6/1/8

वि॒शां क॒विं वि॒श्पतिं॒ शश्व॑तीनां नि॒तोश॑नं वृष॒भं च॑र्षणी॒नाम्। प्रेती॑षणिमि॒षय॑न्तं पाव॒कं राज॑न्तम॒ग्निं य॑ज॒तं र॑यी॒णाम् ॥८॥

वि॒शाम् । क॒विम् । वि॒श्पति॑म् । शश्व॑तीनाम् । नि॒ऽतोश॑नम् । वृ॒ष॒भम् । च॒र्ष॒णी॒नाम् । प्रेति॑ऽइषणिम् । इ॒षय॑न्तम् । पा॒व॒कम् । राज॑न्तम् । अ॒ग्निम् । य॒ज॒तम् । र॒यी॒णाम् ॥

ऋषिः - भरद्वाजो बार्हस्पत्यः

देवता - अग्निः

छन्दः - त्रिष्टुप्

स्वरः - धैवतः

स्वर सहित मन्त्र

वि॒शां क॒विं वि॒श्पतिं॒ शश्व॑तीनां नि॒तोश॑नं वृष॒भं च॑र्षणी॒नाम्। प्रेती॑षणिमि॒षय॑न्तं पाव॒कं राज॑न्तम॒ग्निं य॑ज॒तं र॑यी॒णाम् ॥८॥

स्वर सहित पद पाठ

वि॒शाम् । क॒विम् । वि॒श्पति॑म् । शश्व॑तीनाम् । नि॒ऽतोश॑नम् । वृ॒ष॒भम् । च॒र्ष॒णी॒नाम् । प्रेति॑ऽइषणिम् । इ॒षय॑न्तम् । पा॒व॒कम् । राज॑न्तम् । अ॒ग्निम् । य॒ज॒तम् । र॒यी॒णाम् ॥


स्वर रहित मन्त्र

विशां कविं विश्पतिं शश्वतीनां नितोशनं वृषभं चर्षणीनाम्। प्रेतीषणिमिषयन्तं पावकं राजन्तमग्निं यजतं रयीणाम् ॥८॥


स्वर रहित पद पाठ

विशाम् । कविम् । विश्पतिम् । शश्वतीनाम् । निऽतोशनम् । वृषभम् । चर्षणीनाम् । प्रेतिऽइषणिम् । इषयन्तम् । पावकम् । राजन्तम् । अग्निम् । यजतम् । रयीणाम् ॥