rigveda/5/9/3

उ॒त स्म॒ यं शिशुं॑ यथा॒ नवं॒ जनि॑ष्टा॒रणी॑। ध॒र्तारं॒ मानु॑षीणां वि॒शाम॒ग्निं स्व॑ध्व॒रम् ॥३॥

उ॒त । स्म॒ । यम् । शिशु॑म् । यथा॑ । नव॑म् । जनि॑ष्ट । अ॒रणी॒ इति॑ । ध॒र्तार॑म् । मानु॑षीणाम् । वि॒शाम् । अ॒ग्निम् । सु॒ऽअ॒ध्व॒रम् ॥

ऋषिः - गय आत्रेयः

देवता - अग्निः

छन्दः - भुरिगुष्णिक्

स्वरः - ऋषभः

स्वर सहित मन्त्र

उ॒त स्म॒ यं शिशुं॑ यथा॒ नवं॒ जनि॑ष्टा॒रणी॑। ध॒र्तारं॒ मानु॑षीणां वि॒शाम॒ग्निं स्व॑ध्व॒रम् ॥३॥

स्वर सहित पद पाठ

उ॒त । स्म॒ । यम् । शिशु॑म् । यथा॑ । नव॑म् । जनि॑ष्ट । अ॒रणी॒ इति॑ । ध॒र्तार॑म् । मानु॑षीणाम् । वि॒शाम् । अ॒ग्निम् । सु॒ऽअ॒ध्व॒रम् ॥


स्वर रहित मन्त्र

उत स्म यं शिशुं यथा नवं जनिष्टारणी। धर्तारं मानुषीणां विशामग्निं स्वध्वरम् ॥३॥


स्वर रहित पद पाठ

उत । स्म । यम् । शिशुम् । यथा । नवम् । जनिष्ट । अरणी इति । धर्तारम् । मानुषीणाम् । विशाम् । अग्निम् । सुऽअध्वरम् ॥