rigveda/5/86/2

या पृत॑नासु दु॒ष्टरा॒ या वाजे॑षु श्र॒वाय्या॑। या पञ्च॑ चर्ष॒णीर॒भी॑न्द्रा॒ग्नी ता ह॑वामहे ॥२॥

या । पृत॑नासु । दु॒स्तरा॑ । या । वाजे॑षु । श्र॒वाय्या॑ । या । पञ्च॑ । च॒र्ष॒णीः । अ॒भि । इ॒न्द्रा॒ग्नी इति॑ । ता । ह॒वा॒म॒हे॒ ॥

ऋषिः - अत्रिः

देवता - वरुणः

छन्दः - निचृत्त्रिष्टुप्

स्वरः - धैवतः

स्वर सहित मन्त्र

या पृत॑नासु दु॒ष्टरा॒ या वाजे॑षु श्र॒वाय्या॑। या पञ्च॑ चर्ष॒णीर॒भी॑न्द्रा॒ग्नी ता ह॑वामहे ॥२॥

स्वर सहित पद पाठ

या । पृत॑नासु । दु॒स्तरा॑ । या । वाजे॑षु । श्र॒वाय्या॑ । या । पञ्च॑ । च॒र्ष॒णीः । अ॒भि । इ॒न्द्रा॒ग्नी इति॑ । ता । ह॒वा॒म॒हे॒ ॥


स्वर रहित मन्त्र

या पृतनासु दुष्टरा या वाजेषु श्रवाय्या। या पञ्च चर्षणीरभीन्द्राग्नी ता हवामहे ॥२॥


स्वर रहित पद पाठ

या । पृतनासु । दुस्तरा । या । वाजेषु । श्रवाय्या । या । पञ्च । चर्षणीः । अभि । इन्द्राग्नी इति । ता । हवामहे ॥