rigveda/5/85/7

अ॒र्य॒म्यं॑ वरुण मि॒त्र्यं॑ वा॒ सखा॑यं वा॒ सद॒मिद्भ्रात॑रं वा। वे॒शं वा॒ नित्यं॑ वरु॒णार॑णं वा॒ यत्सी॒माग॑श्चकृ॒मा शि॒श्रथ॒स्तत् ॥७॥

अ॒र्य॒म्य॑म् । व॒रु॒ण॒ । मि॒त्र्य॑म् । वा॒ । सखा॑यम् । वा॒ । सद॑म् । इत् । भ्रात॑रम् । वा॒ । वे॒शम् । वा॒ । नित्य॑म् । व॒रु॒ण॒ । अर॑णम् । वा॒ । यत् । सी॒म् । आगः॑ । च॒कृ॒म । शि॒श्रथः॑ । तत् ॥

ऋषिः - अत्रिः

देवता - वरुणः

छन्दः - स्वराट्पङ्क्ति

स्वरः - पञ्चमः

स्वर सहित मन्त्र

अ॒र्य॒म्यं॑ वरुण मि॒त्र्यं॑ वा॒ सखा॑यं वा॒ सद॒मिद्भ्रात॑रं वा। वे॒शं वा॒ नित्यं॑ वरु॒णार॑णं वा॒ यत्सी॒माग॑श्चकृ॒मा शि॒श्रथ॒स्तत् ॥७॥

स्वर सहित पद पाठ

अ॒र्य॒म्य॑म् । व॒रु॒ण॒ । मि॒त्र्य॑म् । वा॒ । सखा॑यम् । वा॒ । सद॑म् । इत् । भ्रात॑रम् । वा॒ । वे॒शम् । वा॒ । नित्य॑म् । व॒रु॒ण॒ । अर॑णम् । वा॒ । यत् । सी॒म् । आगः॑ । च॒कृ॒म । शि॒श्रथः॑ । तत् ॥


स्वर रहित मन्त्र

अर्यम्यं वरुण मित्र्यं वा सखायं वा सदमिद्भ्रातरं वा। वेशं वा नित्यं वरुणारणं वा यत्सीमागश्चकृमा शिश्रथस्तत् ॥७॥


स्वर रहित पद पाठ

अर्यम्यम् । वरुण । मित्र्यम् । वा । सखायम् । वा । सदम् । इत् । भ्रातरम् । वा । वेशम् । वा । नित्यम् । वरुण । अरणम् । वा । यत् । सीम् । आगः । चकृम । शिश्रथः । तत् ॥