rigveda/5/85/6
ऋषिः - अत्रिः
देवता - वरुणः
छन्दः - निचृत्त्रिष्टुप्
स्वरः - धैवतः
इ॒माम् । ऊँ॒ इति॑ । नु । क॒विऽत॑मस्य । मा॒याम् । म॒हीम् । दे॒वस्य॑ । नकिः॑ । आ । द॒ध॒र्ष॒ । एक॑म् । यत् । उ॒द्ना । न । पृ॒णन्ति॑ । एनीः॑ । आ॒ऽसि॒ञ्चन्तीः॑ । अ॒वन॑यः । स॒मु॒द्रम् ॥
इमाम् । ऊँ इति । नु । कविऽतमस्य । मायाम् । महीम् । देवस्य । नकिः । आ । दधर्ष । एकम् । यत् । उद्ना । न । पृणन्ति । एनीः । आऽसिञ्चन्तीः । अवनयः । समुद्रम् ॥