rigveda/5/84/1
ऋषिः - अत्रिः
देवता - पृथिवी
छन्दः - निचृदनुष्टुप्
स्वरः - गान्धारः
बट् । इ॒त्था । पर्व॑तानाम् । खि॒द्रम् । बि॒भ॒र्षि॒ । पृ॒थि॒वि॒ । प्र । या । भूमि॑म् । प्र॒व॒त्व॒ति॒ । म॒ह्ना । जि॒नोषि॑ । म॒हि॒नि॒ ॥
बट् । इत्था । पर्वतानाम् । खिद्रम् । बिभर्षि । पृथिवि । प्र । या । भूमिम् । प्रवत्वति । मह्ना । जिनोषि । महिनि ॥