rigveda/5/8/4

त्वाम॑ग्ने धर्ण॒सिं वि॒श्वधा॑ व॒यं गी॒र्भिर्गृ॒णन्तो॒ नम॒सोप॑ सेदिम। स नो॑ जुषस्व समिधा॒नो अ॑ङ्गिरो दे॒वो मर्त॑स्य य॒शसा॑ सुदी॒तिभिः॑ ॥४॥

त्वाम् । अ॒ग्ने॒ । ध॒र्ण॒सिम् । वि॒श्वऽधा॑ । व॒यम् । गीः॒ऽभिः । गृ॒णन्तः॑ । न॒म॒सा । उप॑ । से॒दि॒म॒ । सः । नः॒ । जु॒ष॒स्व॒ । स॒म्ऽइ॒धा॒नः । अ॒ङ्गि॒रः॒ । दे॒वः । मर्त॑स्य । य॒शसा॑ । सु॒दी॒तिऽभिः॑ ॥

ऋषिः - इष आत्रेयः

देवता - अग्निः

छन्दः - निचृज्जगती

स्वरः - निषादः

स्वर सहित मन्त्र

त्वाम॑ग्ने धर्ण॒सिं वि॒श्वधा॑ व॒यं गी॒र्भिर्गृ॒णन्तो॒ नम॒सोप॑ सेदिम। स नो॑ जुषस्व समिधा॒नो अ॑ङ्गिरो दे॒वो मर्त॑स्य य॒शसा॑ सुदी॒तिभिः॑ ॥४॥

स्वर सहित पद पाठ

त्वाम् । अ॒ग्ने॒ । ध॒र्ण॒सिम् । वि॒श्वऽधा॑ । व॒यम् । गीः॒ऽभिः । गृ॒णन्तः॑ । न॒म॒सा । उप॑ । से॒दि॒म॒ । सः । नः॒ । जु॒ष॒स्व॒ । स॒म्ऽइ॒धा॒नः । अ॒ङ्गि॒रः॒ । दे॒वः । मर्त॑स्य । य॒शसा॑ । सु॒दी॒तिऽभिः॑ ॥


स्वर रहित मन्त्र

त्वामग्ने धर्णसिं विश्वधा वयं गीर्भिर्गृणन्तो नमसोप सेदिम। स नो जुषस्व समिधानो अङ्गिरो देवो मर्तस्य यशसा सुदीतिभिः ॥४॥


स्वर रहित पद पाठ

त्वाम् । अग्ने । धर्णसिम् । विश्वऽधा । वयम् । गीःऽभिः । गृणन्तः । नमसा । उप । सेदिम । सः । नः । जुषस्व । सम्ऽइधानः । अङ्गिरः । देवः । मर्तस्य । यशसा । सुदीतिऽभिः ॥