rigveda/5/75/4
ऋषिः - अमहीयुः
देवता - अश्विनौ
छन्दः - निचृत्पङ्क्ति
स्वरः - पञ्चमः
सु॒ऽस्तुभः॑ । वा॒म् । वृ॒ष॒ण्व॒सू॒ इति॑ वृषण्ऽवसू । रथे॑ । वाणी॑ची । आहि॑ता । उ॒त । वा॒म् । क॒कु॒हः । मृ॒गः । पृक्षः॑ । कृ॒णो॒ति॒ । वा॒पु॒षः । माध्वी॒ इति॑ । मम॑ । श्रुत॑म् । हव॑म् ॥
सुऽस्तुभः । वाम् । वृषण्वसू इति वृषण्ऽवसू । रथे । वाणीची । आहिता । उत । वाम् । ककुहः । मृगः । पृक्षः । कृणोति । वापुषः । माध्वी इति । मम । श्रुतम् । हवम् ॥