rigveda/5/57/6

ऋ॒ष्टयो॑ वो मरुतो॒ अंस॑यो॒रधि॒ सह॒ ओजो॑ बा॒ह्वोर्वो॒ बलं॑ हि॒तम्। नृ॒म्णा शी॒र्षस्वायु॑धा॒ रथे॑षु वो॒ विश्वा॑ वः॒ श्रीरधि॑ त॒नूषु॑ पिपिशे ॥६॥

ऋ॒ष्टयः॑ । वः॒ । म॒रु॒तः॒ । अंस॑योः । अधि॑ । सहः॑ । ओजः॑ । बा॒ह्वोः । वः॒ । बल॑म् । हि॒तम् । नृ॒म्णा । शी॒र्षऽसु॑ । आयु॑धा । रथे॑षु । वः॒ । विश्वा॑ । वः॒ । श्रीः । अधि॑ । त॒नूषु॑ । पि॒पि॒शे॒ ॥

ऋषिः - श्यावाश्व आत्रेयः

देवता - मरुतः

छन्दः - जगती

स्वरः - निषादः

स्वर सहित मन्त्र

ऋ॒ष्टयो॑ वो मरुतो॒ अंस॑यो॒रधि॒ सह॒ ओजो॑ बा॒ह्वोर्वो॒ बलं॑ हि॒तम्। नृ॒म्णा शी॒र्षस्वायु॑धा॒ रथे॑षु वो॒ विश्वा॑ वः॒ श्रीरधि॑ त॒नूषु॑ पिपिशे ॥६॥

स्वर सहित पद पाठ

ऋ॒ष्टयः॑ । वः॒ । म॒रु॒तः॒ । अंस॑योः । अधि॑ । सहः॑ । ओजः॑ । बा॒ह्वोः । वः॒ । बल॑म् । हि॒तम् । नृ॒म्णा । शी॒र्षऽसु॑ । आयु॑धा । रथे॑षु । वः॒ । विश्वा॑ । वः॒ । श्रीः । अधि॑ । त॒नूषु॑ । पि॒पि॒शे॒ ॥


स्वर रहित मन्त्र

ऋष्टयो वो मरुतो अंसयोरधि सह ओजो बाह्वोर्वो बलं हितम्। नृम्णा शीर्षस्वायुधा रथेषु वो विश्वा वः श्रीरधि तनूषु पिपिशे ॥६॥


स्वर रहित पद पाठ

ऋष्टयः । वः । मरुतः । अंसयोः । अधि । सहः । ओजः । बाह्वोः । वः । बलम् । हितम् । नृम्णा । शीर्षऽसु । आयुधा । रथेषु । वः । विश्वा । वः । श्रीः । अधि । तनूषु । पिपिशे ॥