rigveda/5/57/2

वाशी॑मन्त ऋष्टि॒मन्तो॑ मनी॒षिणः॑ सु॒धन्वा॑न॒ इषु॑मन्तो निष॒ङ्गिणः॑। स्वश्वाः॑ स्थ सु॒रथाः॑ पृश्निमातरः स्वायु॒धा म॑रुतो याथना॒ शुभ॑म् ॥२॥

वाशी॑ऽमन्तः । ऋ॒ष्टि॒ऽमन्तः॑ । म॒नी॒षिणः॑ । सु॒ऽधन्वा॑नः । इषु॑ऽमन्तः । नि॒ष॒ङ्गिणः॑ । सु॒ऽअश्वाः॑ । स्थ॒ । सु॒ऽरथाः॑ । पृ॒श्नि॒ऽमा॒त॒रः॒ । सु॒ऽआ॒यु॒धाः । म॒रु॒तः॒ । या॒थ॒न॒ । शुभ॑म् ॥

ऋषिः - श्यावाश्व आत्रेयः

देवता - मरुतः

छन्दः - बृहती

स्वरः - मध्यमः

स्वर सहित मन्त्र

वाशी॑मन्त ऋष्टि॒मन्तो॑ मनी॒षिणः॑ सु॒धन्वा॑न॒ इषु॑मन्तो निष॒ङ्गिणः॑। स्वश्वाः॑ स्थ सु॒रथाः॑ पृश्निमातरः स्वायु॒धा म॑रुतो याथना॒ शुभ॑म् ॥२॥

स्वर सहित पद पाठ

वाशी॑ऽमन्तः । ऋ॒ष्टि॒ऽमन्तः॑ । म॒नी॒षिणः॑ । सु॒ऽधन्वा॑नः । इषु॑ऽमन्तः । नि॒ष॒ङ्गिणः॑ । सु॒ऽअश्वाः॑ । स्थ॒ । सु॒ऽरथाः॑ । पृ॒श्नि॒ऽमा॒त॒रः॒ । सु॒ऽआ॒यु॒धाः । म॒रु॒तः॒ । या॒थ॒न॒ । शुभ॑म् ॥


स्वर रहित मन्त्र

वाशीमन्त ऋष्टिमन्तो मनीषिणः सुधन्वान इषुमन्तो निषङ्गिणः। स्वश्वाः स्थ सुरथाः पृश्निमातरः स्वायुधा मरुतो याथना शुभम् ॥२॥


स्वर रहित पद पाठ

वाशीऽमन्तः । ऋष्टिऽमन्तः । मनीषिणः । सुऽधन्वानः । इषुऽमन्तः । निषङ्गिणः । सुऽअश्वाः । स्थ । सुऽरथाः । पृश्निऽमातरः । सुऽआयुधाः । मरुतः । याथन । शुभम् ॥