rigveda/5/56/7
ऋषिः - श्यावाश्व आत्रेयः
देवता - मरुतः
छन्दः - निचृद्बृहती
स्वरः - मध्यमः
उ॒त । स्यः । वा॒जी । अ॒रु॒षः । तु॒वि॒ऽस्वणिः॑ । इ॒ह । स्म॒ । धा॒यि॒ । द॒र्श॒तः । मा । वः॒ । यामे॑षु । म॒रु॒तः॒ । चि॒रम् । क॒र॒त् । प्र । तम् । रथे॑षु । चो॒द॒त॒ ॥
उत । स्यः । वाजी । अरुषः । तुविऽस्वणिः । इह । स्म । धायि । दर्शतः । मा । वः । यामेषु । मरुतः । चिरम् । करत् । प्र । तम् । रथेषु । चोदत ॥