rigveda/5/56/2

यथा॑ चि॒न्मन्य॑से हृ॒दा तदिन्मे॑ जग्मुरा॒शसः॑। ये ते॒ नेदि॑ष्ठं॒ हव॑नान्या॒गम॒न्तान्व॑र्ध भीमसं॑दृशः ॥२॥

यथा॑ । चि॒त् । मन्य॑से । हृ॒दा । तत् । इत् । मे॒ । ज॒ग्मुः॒ । आ॒ऽशसः॑ । ये । ते॒ । नेदि॑ष्ठम् । हव॑नानि । आ॒ऽगम॑न् । तान् । व॒र्ध॒ । भी॒मऽस॑न्दृशः ॥

ऋषिः - श्यावाश्व आत्रेयः

देवता - मरुतः

छन्दः - निचृत्त्रिष्टुप्

स्वरः - गान्धारः

स्वर सहित मन्त्र

यथा॑ चि॒न्मन्य॑से हृ॒दा तदिन्मे॑ जग्मुरा॒शसः॑। ये ते॒ नेदि॑ष्ठं॒ हव॑नान्या॒गम॒न्तान्व॑र्ध भीमसं॑दृशः ॥२॥

स्वर सहित पद पाठ

यथा॑ । चि॒त् । मन्य॑से । हृ॒दा । तत् । इत् । मे॒ । ज॒ग्मुः॒ । आ॒ऽशसः॑ । ये । ते॒ । नेदि॑ष्ठम् । हव॑नानि । आ॒ऽगम॑न् । तान् । व॒र्ध॒ । भी॒मऽस॑न्दृशः ॥


स्वर रहित मन्त्र

यथा चिन्मन्यसे हृदा तदिन्मे जग्मुराशसः। ये ते नेदिष्ठं हवनान्यागमन्तान्वर्ध भीमसंदृशः ॥२॥


स्वर रहित पद पाठ

यथा । चित् । मन्यसे । हृदा । तत् । इत् । मे । जग्मुः । आऽशसः । ये । ते । नेदिष्ठम् । हवनानि । आऽगमन् । तान् । वर्ध । भीमऽसन्दृशः ॥