rigveda/5/55/8

यत्पू॒र्व्यं म॑रुतो॒ यच्च॒ नूत॑नं॒ यदु॒द्यते॑ वसवो॒ यच्च॑ श॒स्यते॑। विश्व॑स्य॒ तस्य॑ भवथा॒ नवे॑दसः॒ शुभं॑ या॒तामनु॒ रथा॑ अवृत्सत ॥८॥

यत् । पू॒र्व्यम् । म॒रु॒तः॒ । यत् । च॒ । नूत॑नम् । यत् । उ॒द्यते॑ । व॒स॒वः॒ । यत् । च॒ । श॒स्यते॑ । विश्व॑स्य । तस्य॑ । भ॒व॒थ॒ । नवे॑दसः । शुभ॑म् । या॒ताम् । अनु॑ । रथाः॑ । अ॒वृ॒त्स॒त॒ ॥

ऋषिः - श्यावाश्व आत्रेयः

देवता - मरुतः

छन्दः - निचृत्त्रिष्टुप्

स्वरः - गान्धारः

स्वर सहित मन्त्र

यत्पू॒र्व्यं म॑रुतो॒ यच्च॒ नूत॑नं॒ यदु॒द्यते॑ वसवो॒ यच्च॑ श॒स्यते॑। विश्व॑स्य॒ तस्य॑ भवथा॒ नवे॑दसः॒ शुभं॑ या॒तामनु॒ रथा॑ अवृत्सत ॥८॥

स्वर सहित पद पाठ

यत् । पू॒र्व्यम् । म॒रु॒तः॒ । यत् । च॒ । नूत॑नम् । यत् । उ॒द्यते॑ । व॒स॒वः॒ । यत् । च॒ । श॒स्यते॑ । विश्व॑स्य । तस्य॑ । भ॒व॒थ॒ । नवे॑दसः । शुभ॑म् । या॒ताम् । अनु॑ । रथाः॑ । अ॒वृ॒त्स॒त॒ ॥


स्वर रहित मन्त्र

यत्पूर्व्यं मरुतो यच्च नूतनं यदुद्यते वसवो यच्च शस्यते। विश्वस्य तस्य भवथा नवेदसः शुभं यातामनु रथा अवृत्सत ॥८॥


स्वर रहित पद पाठ

यत् । पूर्व्यम् । मरुतः । यत् । च । नूतनम् । यत् । उद्यते । वसवः । यत् । च । शस्यते । विश्वस्य । तस्य । भवथ । नवेदसः । शुभम् । याताम् । अनु । रथाः । अवृत्सत ॥