rigveda/5/55/6

यदश्वा॑न्धू॒र्षु पृष॑ती॒रयु॑ग्ध्वं हिर॒ण्यया॒न्प्रत्यत्काँ॒ अमु॑ग्ध्वम्। विश्वा॒ इत्स्पृधो॑ मरुतो॒ व्य॑स्यथ॒ शुभं॑ या॒तामनु॒ रथा॑ अवृत्सत ॥६॥

यत् । अश्वा॑न् । धूः॒ऽसु । पृष॑तीः । अयु॑ग्ध्वम् । हि॒र॒ण्यया॑न् । प्रति॑ । अत्का॑न् । अमु॑ग्ध्वम् । विश्वाः॑ । इत् । स्पृधः॑ । म॒रु॒तः॒ । वि । अ॒स्य॒थ॒ । शुभ॑म् । या॒ताम् । अनु॑ । रथाः॑ । अ॒वृ॒त्स॒त॒ ॥

ऋषिः - श्यावाश्व आत्रेयः

देवता - मरुतः

छन्दः - निचृज्जगती

स्वरः - निषादः

स्वर सहित मन्त्र

यदश्वा॑न्धू॒र्षु पृष॑ती॒रयु॑ग्ध्वं हिर॒ण्यया॒न्प्रत्यत्काँ॒ अमु॑ग्ध्वम्। विश्वा॒ इत्स्पृधो॑ मरुतो॒ व्य॑स्यथ॒ शुभं॑ या॒तामनु॒ रथा॑ अवृत्सत ॥६॥

स्वर सहित पद पाठ

यत् । अश्वा॑न् । धूः॒ऽसु । पृष॑तीः । अयु॑ग्ध्वम् । हि॒र॒ण्यया॑न् । प्रति॑ । अत्का॑न् । अमु॑ग्ध्वम् । विश्वाः॑ । इत् । स्पृधः॑ । म॒रु॒तः॒ । वि । अ॒स्य॒थ॒ । शुभ॑म् । या॒ताम् । अनु॑ । रथाः॑ । अ॒वृ॒त्स॒त॒ ॥


स्वर रहित मन्त्र

यदश्वान्धूर्षु पृषतीरयुग्ध्वं हिरण्ययान्प्रत्यत्काँ अमुग्ध्वम्। विश्वा इत्स्पृधो मरुतो व्यस्यथ शुभं यातामनु रथा अवृत्सत ॥६॥


स्वर रहित पद पाठ

यत् । अश्वान् । धूःऽसु । पृषतीः । अयुग्ध्वम् । हिरण्ययान् । प्रति । अत्कान् । अमुग्ध्वम् । विश्वाः । इत् । स्पृधः । मरुतः । वि । अस्यथ । शुभम् । याताम् । अनु । रथाः । अवृत्सत ॥