rigveda/5/55/3
ऋषिः - श्यावाश्व आत्रेयः
देवता - मरुतः
छन्दः - जगती
स्वरः - निषादः
सा॒कम् । जा॒ताः । सु॒ऽभ्वः॑ । सा॒कम् । उ॒क्षि॒ताः । श्रि॒ये । चि॒त् । आ । प्र॒ऽत॒रम् । व॒वृ॒धुः॒ । नरः॑ । वि॒ऽरो॒किणः॑ । सूर्य॑स्यऽइव । र॒श्मयः॑ । शुभ॑म् । या॒ताम् । अनु॑ । रथाः॑ । अ॒वृ॒त्स॒त॒ ॥
साकम् । जाताः । सुऽभ्वः । साकम् । उक्षिताः । श्रिये । चित् । आ । प्रऽतरम् । ववृधुः । नरः । विऽरोकिणः । सूर्यस्यऽइव । रश्मयः । शुभम् । याताम् । अनु । रथाः । अवृत्सत ॥