rigveda/5/52/14
ऋषिः - श्यावाश्व आत्रेयः
देवता - मरुतः
छन्दः - अनुष्टुप्
स्वरः - गान्धारः
अच्छ॑ । ऋ॒षे॒ । मारु॑तम् । ग॒णम् । दा॒ना । मि॒त्रम् । न । यो॒षणा॑ । दि॒वः । वा॒ । धृ॒ष्ण॒वः॒ । ओज॑सा । स्तु॒ताः । धी॒भिः । इ॒ष॒ण्य॒त॒ ॥
अच्छ । ऋषे । मारुतम् । गणम् । दाना । मित्रम् । न । योषणा । दिवः । वा । धृष्णवः । ओजसा । स्तुताः । धीभिः । इषण्यत ॥