rigveda/5/48/3

आ ग्राव॑भिरह॒न्ये॑भिर॒क्तुभि॒र्वरि॑ष्ठं॒ वज्र॒मा जि॑घर्ति मा॒यिनि॑। श॒तं वा॒ यस्य॑ प्र॒चर॒न्त्स्वे दमे॑ संव॒र्तय॑न्तो॒ वि च॑ वर्तय॒न्नहा॑ ॥३॥

आ । ग्राव॑ऽभिः । अ॒ह॒न्ये॑भिः । अ॒क्तुऽभिः॑ । वरि॑ष्ठम् । वज्र॑म् । आ । जि॒घ॒र्ति॒ । मा॒यिनि॑ । श॒तम् । वा॒ । यस्य॑ । प्र॒ऽचर॑न् । स्वे । दमे॑ । स॒म्ऽव॒र्तय॑न्तः । वि । च॒ । व॒र्त॒य॒न् । अहा॑ ॥

ऋषिः - प्रतिभानुरात्रेयः

देवता - विश्वेदेवा:

छन्दः - स्वराट्त्रिष्टुप्

स्वरः - धैवतः

स्वर सहित मन्त्र

आ ग्राव॑भिरह॒न्ये॑भिर॒क्तुभि॒र्वरि॑ष्ठं॒ वज्र॒मा जि॑घर्ति मा॒यिनि॑। श॒तं वा॒ यस्य॑ प्र॒चर॒न्त्स्वे दमे॑ संव॒र्तय॑न्तो॒ वि च॑ वर्तय॒न्नहा॑ ॥३॥

स्वर सहित पद पाठ

आ । ग्राव॑ऽभिः । अ॒ह॒न्ये॑भिः । अ॒क्तुऽभिः॑ । वरि॑ष्ठम् । वज्र॑म् । आ । जि॒घ॒र्ति॒ । मा॒यिनि॑ । श॒तम् । वा॒ । यस्य॑ । प्र॒ऽचर॑न् । स्वे । दमे॑ । स॒म्ऽव॒र्तय॑न्तः । वि । च॒ । व॒र्त॒य॒न् । अहा॑ ॥


स्वर रहित मन्त्र

आ ग्रावभिरहन्येभिरक्तुभिर्वरिष्ठं वज्रमा जिघर्ति मायिनि। शतं वा यस्य प्रचरन्त्स्वे दमे संवर्तयन्तो वि च वर्तयन्नहा ॥३॥


स्वर रहित पद पाठ

आ । ग्रावऽभिः । अहन्येभिः । अक्तुऽभिः । वरिष्ठम् । वज्रम् । आ । जिघर्ति । मायिनि । शतम् । वा । यस्य । प्रऽचरन् । स्वे । दमे । सम्ऽवर्तयन्तः । वि । च । वर्तयन् । अहा ॥