rigveda/5/46/4

उ॒त नो॒ विष्णु॑रु॒त वातो॑ अ॒स्रिधो॑ द्रविणो॒दा उ॒त सोमो॒ मय॑स्करत्। उ॒त ऋ॒भव॑ उ॒त रा॒ये नो॑ अ॒श्विनो॒त त्वष्टो॒त विभ्वानु॑ मंसते ॥४॥

उ॒त । नः॒ । विष्णुः॑ । उ॒त । वातः॑ । अ॒स्रिधः॑ । द्र॒वि॒णः॒ऽदा । उ॒त । सोमः॑ । मयः॑ । क॒र॒त् । उ॒त । ऋ॒भवः॑ । उ॒त । रा॒ये । नः॒ । अ॒श्विना॑ । उ॒त । त्वष्टा॑ । उ॒त । विभ्वा॑ । अनु॑ । मं॒स॒ते॒ ॥

ऋषिः - प्रतिक्षत्र आत्रेयः

देवता - विश्वेदेवा:

छन्दः - निचृत्पङ्क्ति

स्वरः - पञ्चमः

स्वर सहित मन्त्र

उ॒त नो॒ विष्णु॑रु॒त वातो॑ अ॒स्रिधो॑ द्रविणो॒दा उ॒त सोमो॒ मय॑स्करत्। उ॒त ऋ॒भव॑ उ॒त रा॒ये नो॑ अ॒श्विनो॒त त्वष्टो॒त विभ्वानु॑ मंसते ॥४॥

स्वर सहित पद पाठ

उ॒त । नः॒ । विष्णुः॑ । उ॒त । वातः॑ । अ॒स्रिधः॑ । द्र॒वि॒णः॒ऽदा । उ॒त । सोमः॑ । मयः॑ । क॒र॒त् । उ॒त । ऋ॒भवः॑ । उ॒त । रा॒ये । नः॒ । अ॒श्विना॑ । उ॒त । त्वष्टा॑ । उ॒त । विभ्वा॑ । अनु॑ । मं॒स॒ते॒ ॥


स्वर रहित मन्त्र

उत नो विष्णुरुत वातो अस्रिधो द्रविणोदा उत सोमो मयस्करत्। उत ऋभव उत राये नो अश्विनोत त्वष्टोत विभ्वानु मंसते ॥४॥


स्वर रहित पद पाठ

उत । नः । विष्णुः । उत । वातः । अस्रिधः । द्रविणःऽदा । उत । सोमः । मयः । करत् । उत । ऋभवः । उत । राये । नः । अश्विना । उत । त्वष्टा । उत । विभ्वा । अनु । मंसते ॥