rigveda/5/46/3

इ॒न्द्रा॒ग्नी मि॒त्रावरु॒णादि॑तिं॒ स्वः॑ पृथि॒वीं द्यां म॒रुतः॒ पर्व॑ताँ अ॒पः। हु॒वे विष्णुं॑ पू॒षणं॒ ब्रह्म॑ण॒स्पतिं॒ भ॒गं नु शंसं॑ सवि॒तार॑मू॒तये॑ ॥३॥

इ॒न्द्रा॒ग्नी इति॑ । मि॒त्रावरु॒णा । अदि॑तिम् । स्वरिति॑ स्वः॑ । पृ॒थि॒वीम् । द्याम् । म॒रुतः॑ । पर्व॑तान् । अ॒पः । हु॒वे । विष्णु॑म् । पू॒षण॑म् । ब्रह्म॑णः । पति॑म् । भग॑म् । नु । शंस॑म् । स॒वि॒तार॑म् । ऊ॒तये॑ ॥

ऋषिः - प्रतिक्षत्र आत्रेयः

देवता - विश्वेदेवा:

छन्दः - भुरिग्जगती

स्वरः - निषादः

स्वर सहित मन्त्र

इ॒न्द्रा॒ग्नी मि॒त्रावरु॒णादि॑तिं॒ स्वः॑ पृथि॒वीं द्यां म॒रुतः॒ पर्व॑ताँ अ॒पः। हु॒वे विष्णुं॑ पू॒षणं॒ ब्रह्म॑ण॒स्पतिं॒ भ॒गं नु शंसं॑ सवि॒तार॑मू॒तये॑ ॥३॥

स्वर सहित पद पाठ

इ॒न्द्रा॒ग्नी इति॑ । मि॒त्रावरु॒णा । अदि॑तिम् । स्वरिति॑ स्वः॑ । पृ॒थि॒वीम् । द्याम् । म॒रुतः॑ । पर्व॑तान् । अ॒पः । हु॒वे । विष्णु॑म् । पू॒षण॑म् । ब्रह्म॑णः । पति॑म् । भग॑म् । नु । शंस॑म् । स॒वि॒तार॑म् । ऊ॒तये॑ ॥


स्वर रहित मन्त्र

इन्द्राग्नी मित्रावरुणादितिं स्वः पृथिवीं द्यां मरुतः पर्वताँ अपः। हुवे विष्णुं पूषणं ब्रह्मणस्पतिं भगं नु शंसं सवितारमूतये ॥३॥


स्वर रहित पद पाठ

इन्द्राग्नी इति । मित्रावरुणा । अदितिम् । स्वरिति स्वः । पृथिवीम् । द्याम् । मरुतः । पर्वतान् । अपः । हुवे । विष्णुम् । पूषणम् । ब्रह्मणः । पतिम् । भगम् । नु । शंसम् । सवितारम् । ऊतये ॥