rigveda/5/45/8

विश्वे॑ अ॒स्या व्युषि॒ माहि॑नायाः॒ सं यद्गोभि॒रङ्गि॑रसो॒ नव॑न्त। उत्स॑ आसां पर॒मे स॒धस्थ॑ ऋ॒तस्य॑ प॒था स॒रमा॑ विद॒द्गाः ॥८॥

विश्वे॑ । अ॒स्याः । वि॒ऽउषि॑ । माहि॑नायाः । सम् । यत् । गोभिः॑ । अङ्गि॑रसः । नव॑न्त । उत्सः॑ । आ॒सा॒म् । प॒र॒मे । स॒धऽस्थे॑ । ऋ॒तस्य॑ । प॒था । स॒रमा॑ । वि॒द॒त् । गाः ॥

ऋषिः - सदापृण आत्रेयः

देवता - विश्वेदेवा:

छन्दः - निचृत्त्रिष्टुप्

स्वरः - धैवतः

स्वर सहित मन्त्र

विश्वे॑ अ॒स्या व्युषि॒ माहि॑नायाः॒ सं यद्गोभि॒रङ्गि॑रसो॒ नव॑न्त। उत्स॑ आसां पर॒मे स॒धस्थ॑ ऋ॒तस्य॑ प॒था स॒रमा॑ विद॒द्गाः ॥८॥

स्वर सहित पद पाठ

विश्वे॑ । अ॒स्याः । वि॒ऽउषि॑ । माहि॑नायाः । सम् । यत् । गोभिः॑ । अङ्गि॑रसः । नव॑न्त । उत्सः॑ । आ॒सा॒म् । प॒र॒मे । स॒धऽस्थे॑ । ऋ॒तस्य॑ । प॒था । स॒रमा॑ । वि॒द॒त् । गाः ॥


स्वर रहित मन्त्र

विश्वे अस्या व्युषि माहिनायाः सं यद्गोभिरङ्गिरसो नवन्त। उत्स आसां परमे सधस्थ ऋतस्य पथा सरमा विदद्गाः ॥८॥


स्वर रहित पद पाठ

विश्वे । अस्याः । विऽउषि । माहिनायाः । सम् । यत् । गोभिः । अङ्गिरसः । नवन्त । उत्सः । आसाम् । परमे । सधऽस्थे । ऋतस्य । पथा । सरमा । विदत् । गाः ॥