rigveda/5/44/9

स॒मु॒द्रमा॑सा॒मव॑ तस्थे अग्रि॒मा न रि॑ष्यति॒ सव॑नं॒ यस्मि॒न्नाय॑ता। अत्रा॒ न हार्दि॑ क्रव॒णस्य॑ रेजते॒ यत्रा॑ म॒तिर्वि॒द्यते॑ पूत॒बन्ध॑नी ॥९॥

स॒मु॒द्रम् । आ॒सा॒म् । अव॑ । त॒स्थे॒ । अ॒ग्रि॒मा । न । रि॒ष्य॒ति॒ । सव॑नम् । यस्मि॑न् । आऽय॑ता । अत्र॑ । न । हार्दि॑ । क्र॒व॒णस्य॑ । रे॒ज॒ते॒ । यत्र॑ । म॒तिः । वि॒द्यते॑ । पू॒त॒ऽबन्ध॑नी ॥

ऋषिः - अवत्सारः काश्यप अन्ये च दृष्टलिङ्गाः

देवता - विश्वेदेवा:

छन्दः - भुरिक्त्रिष्टुप्

स्वरः - धैवतः

स्वर सहित मन्त्र

स॒मु॒द्रमा॑सा॒मव॑ तस्थे अग्रि॒मा न रि॑ष्यति॒ सव॑नं॒ यस्मि॒न्नाय॑ता। अत्रा॒ न हार्दि॑ क्रव॒णस्य॑ रेजते॒ यत्रा॑ म॒तिर्वि॒द्यते॑ पूत॒बन्ध॑नी ॥९॥

स्वर सहित पद पाठ

स॒मु॒द्रम् । आ॒सा॒म् । अव॑ । त॒स्थे॒ । अ॒ग्रि॒मा । न । रि॒ष्य॒ति॒ । सव॑नम् । यस्मि॑न् । आऽय॑ता । अत्र॑ । न । हार्दि॑ । क्र॒व॒णस्य॑ । रे॒ज॒ते॒ । यत्र॑ । म॒तिः । वि॒द्यते॑ । पू॒त॒ऽबन्ध॑नी ॥


स्वर रहित मन्त्र

समुद्रमासामव तस्थे अग्रिमा न रिष्यति सवनं यस्मिन्नायता। अत्रा न हार्दि क्रवणस्य रेजते यत्रा मतिर्विद्यते पूतबन्धनी ॥९॥


स्वर रहित पद पाठ

समुद्रम् । आसाम् । अव । तस्थे । अग्रिमा । न । रिष्यति । सवनम् । यस्मिन् । आऽयता । अत्र । न । हार्दि । क्रवणस्य । रेजते । यत्र । मतिः । विद्यते । पूतऽबन्धनी ॥