rigveda/5/44/8

ज्यायां॑सम॒स्य य॒तुन॑स्य के॒तुन॑ ऋषिस्व॒रं च॑रति॒ यासु॒ नाम॑ ते। या॒दृश्मि॒न्धायि॒ तम॑प॒स्यया॑ विद॒द्य उ॑ स्व॒यं वह॑ते॒ सो अरं॑ करत् ॥

ज्यायां॑सम् । अ॒स्य । य॒तुन॑स्य । के॒तुना॑ । ऋ॒षि॒ऽस्व॒रम् । च॒र॒ति॒ । यासु॑ । नाम॑ । ते॒ । या॒दृश्मि॑न् । धा॒यि॒ । तम् । अ॒प॒स्यया॑ । वि॒द॒त् । यः । ऊँ॒ इति॑ । स्व॒यम् । वह॑ते । सः । अर॑म् । क॒र॒त् ॥

ऋषिः - अवत्सारः काश्यप अन्ये च दृष्टलिङ्गाः

देवता - विश्वेदेवा: ८॥

छन्दः - निचृज्जगती

स्वरः - निषादः

स्वर सहित मन्त्र

ज्यायां॑सम॒स्य य॒तुन॑स्य के॒तुन॑ ऋषिस्व॒रं च॑रति॒ यासु॒ नाम॑ ते। या॒दृश्मि॒न्धायि॒ तम॑प॒स्यया॑ विद॒द्य उ॑ स्व॒यं वह॑ते॒ सो अरं॑ करत् ॥

स्वर सहित पद पाठ

ज्यायां॑सम् । अ॒स्य । य॒तुन॑स्य । के॒तुना॑ । ऋ॒षि॒ऽस्व॒रम् । च॒र॒ति॒ । यासु॑ । नाम॑ । ते॒ । या॒दृश्मि॑न् । धा॒यि॒ । तम् । अ॒प॒स्यया॑ । वि॒द॒त् । यः । ऊँ॒ इति॑ । स्व॒यम् । वह॑ते । सः । अर॑म् । क॒र॒त् ॥


स्वर रहित मन्त्र

ज्यायांसमस्य यतुनस्य केतुन ऋषिस्वरं चरति यासु नाम ते। यादृश्मिन्धायि तमपस्यया विदद्य उ स्वयं वहते सो अरं करत् ॥


स्वर रहित पद पाठ

ज्यायांसम् । अस्य । यतुनस्य । केतुना । ऋषिऽस्वरम् । चरति । यासु । नाम । ते । यादृश्मिन् । धायि । तम् । अपस्यया । विदत् । यः । ऊँ इति । स्वयम् । वहते । सः । अरम् । करत् ॥