rigveda/5/43/2
ऋषिः - अत्रिः
देवता - विश्वेदेवा:
छन्दः - निचृत्त्रिष्टुप्
स्वरः - धैवतः
आ । सु॒ऽस्तु॒ती । नम॑सा । व॒र्त॒यध्यै॑ । द्यावा॑ । वाजा॑य । पृ॒थि॒वी इति॑ । अमृ॑ध्रे॒ इति॑ । पि॒ता । मा॒ता । मधु॑ऽवचाः । सु॒ऽहस्ता॑ । भरे॑ऽभरे । नः॒ । य॒शसौ॑ । अ॒वि॒ष्टा॒म् ॥
आ । सुऽस्तुती । नमसा । वर्तयध्यै । द्यावा । वाजाय । पृथिवी इति । अमृध्रे इति । पिता । माता । मधुऽवचाः । सुऽहस्ता । भरेऽभरे । नः । यशसौ । अविष्टाम् ॥