rigveda/5/41/11
ऋषिः - अत्रिः
देवता - विश्वेदेवा:
छन्दः - भुरिक्पङ्क्ति
स्वरः - पञ्चमः
क॒था । म॒हे । रु॒द्रिया॑य । ब्र॒वा॒म॒ । कत् । रा॒ये । चि॒कि॒तुषे॑ । भगा॑य । आपः॑ । ओष॑धीः । उ॒त । नः॒ । अ॒व॒न्तु॒ । द्यौः । वना॑ । गि॒रयः॑ । वृ॒क्षऽके॑शाः ॥
कथा । महे । रुद्रियाय । ब्रवाम । कत् । राये । चिकितुषे । भगाय । आपः । ओषधीः । उत । नः । अवन्तु । द्यौः । वना । गिरयः । वृक्षऽकेशाः ॥