rigveda/5/4/9

विश्वा॑नि नो दु॒र्गहा॑ जातवेदः॒ सिन्धुं॒ न ना॒वा दु॑रि॒ताति॑ पर्षि। अग्ने॑ अत्रि॒वन्नम॑सा गृणा॒नो॒३॒॑स्माकं॑ बोध्यवि॒ता त॒नूना॑म् ॥९॥

विश्वा॑नि । नः॒ । दुः॒ऽगहा॑ । जा॒त॒ऽवे॒दः॒ । सिन्धु॑म् । न । ना॒वा । दुः॒ऽइ॒ता । अति॑ । प॒र्षि॒ । अग्ने॑ । अ॒त्रि॒ऽवत् । नम॑सा । गृ॒णा॒नः । अ॒स्माक॑म् । बो॒धि॒ । अ॒वि॒ता । त॒नूना॑म् ॥

ऋषिः - वसुश्रुत आत्रेयः

देवता - अग्निः

छन्दः - विराट्त्रिष्टुप्

स्वरः - धैवतः

स्वर सहित मन्त्र

विश्वा॑नि नो दु॒र्गहा॑ जातवेदः॒ सिन्धुं॒ न ना॒वा दु॑रि॒ताति॑ पर्षि। अग्ने॑ अत्रि॒वन्नम॑सा गृणा॒नो॒३॒॑स्माकं॑ बोध्यवि॒ता त॒नूना॑म् ॥९॥

स्वर सहित पद पाठ

विश्वा॑नि । नः॒ । दुः॒ऽगहा॑ । जा॒त॒ऽवे॒दः॒ । सिन्धु॑म् । न । ना॒वा । दुः॒ऽइ॒ता । अति॑ । प॒र्षि॒ । अग्ने॑ । अ॒त्रि॒ऽवत् । नम॑सा । गृ॒णा॒नः । अ॒स्माक॑म् । बो॒धि॒ । अ॒वि॒ता । त॒नूना॑म् ॥


स्वर रहित मन्त्र

विश्वानि नो दुर्गहा जातवेदः सिन्धुं न नावा दुरिताति पर्षि। अग्ने अत्रिवन्नमसा गृणानो३स्माकं बोध्यविता तनूनाम् ॥९॥


स्वर रहित पद पाठ

विश्वानि । नः । दुःऽगहा । जातऽवेदः । सिन्धुम् । न । नावा । दुःऽइता । अति । पर्षि । अग्ने । अत्रिऽवत् । नमसा । गृणानः । अस्माकम् । बोधि । अविता । तनूनाम् ॥