rigveda/5/4/6

व॒धेन॒ दस्युं॒ प्र हि चा॒तय॑स्व॒ वयः॑ कृण्वा॒नस्त॒न्वे॒३॒॑ स्वायै॑। पिप॑र्षि॒ यत्स॑हसस्पुत्र दे॒वान्त्सो अ॑ग्ने पाहि नृतम॒ वाजे॑ अ॒स्मान् ॥६॥

वे॒धेन॑ । दस्यु॑म् । प्र । हि । चा॒तय॑स्व । वयः॑ । कृ॒ण्वा॒नः । त॒न्वे॑ । स्वायै॑ । पिप॑र्षि । यत् । स॒ह॒सः॒ । पु॒त्र॒ । दे॒वान् । सः । अ॒ग्ने॒ । पा॒हि॒ । नृ॒ऽत॒म॒ । वाजे॑ । अ॒स्मान् ॥

ऋषिः - वसुश्रुत आत्रेयः

देवता - अग्निः

छन्दः - निचृत्त्रिष्टुप्

स्वरः - धैवतः

स्वर सहित मन्त्र

व॒धेन॒ दस्युं॒ प्र हि चा॒तय॑स्व॒ वयः॑ कृण्वा॒नस्त॒न्वे॒३॒॑ स्वायै॑। पिप॑र्षि॒ यत्स॑हसस्पुत्र दे॒वान्त्सो अ॑ग्ने पाहि नृतम॒ वाजे॑ अ॒स्मान् ॥६॥

स्वर सहित पद पाठ

वे॒धेन॑ । दस्यु॑म् । प्र । हि । चा॒तय॑स्व । वयः॑ । कृ॒ण्वा॒नः । त॒न्वे॑ । स्वायै॑ । पिप॑र्षि । यत् । स॒ह॒सः॒ । पु॒त्र॒ । दे॒वान् । सः । अ॒ग्ने॒ । पा॒हि॒ । नृ॒ऽत॒म॒ । वाजे॑ । अ॒स्मान् ॥


स्वर रहित मन्त्र

वधेन दस्युं प्र हि चातयस्व वयः कृण्वानस्तन्वे३ स्वायै। पिपर्षि यत्सहसस्पुत्र देवान्त्सो अग्ने पाहि नृतम वाजे अस्मान् ॥६॥


स्वर रहित पद पाठ

वेधेन । दस्युम् । प्र । हि । चातयस्व । वयः । कृण्वानः । तन्वे । स्वायै । पिपर्षि । यत् । सहसः । पुत्र । देवान् । सः । अग्ने । पाहि । नृऽतम । वाजे । अस्मान् ॥