rigveda/5/4/11
ऋषिः - वसुश्रुत आत्रेयः
देवता - अग्निः
छन्दः - भुरिक्पङ्क्ति
स्वरः - पञ्चमः
यस्मै॑ । त्वम् । सु॒ऽकृते॑ । जा॒त॒ऽवे॒दः॒ । ऊँ॒ इति॑ । लो॒कम् । अ॒ग्ने॒ । कृ॒णवः॑ । स्यो॒नम् । अ॒श्विन॑म् । सः । पु॒त्रिण॑म् । वी॒रऽव॑न्तम् । गोऽम॑न्तम् । र॒यिम् । न॒श॒ते॒ । स्व॒स्ति ॥
यस्मै । त्वम् । सुऽकृते । जातऽवेदः । ऊँ इति । लोकम् । अग्ने । कृणवः । स्योनम् । अश्विनम् । सः । पुत्रिणम् । वीरऽवन्तम् । गोऽमन्तम् । रयिम् । नशते । स्वस्ति ॥