rigveda/5/37/5
ऋषिः - अत्रिः
देवता - इन्द्र:
छन्दः - निचृत्त्रिष्टुप्
स्वरः - धैवतः
पुष्या॑त् । क्षेमे॑ । अ॒भि । योगे॑ । भ॒वा॒ति॒ । उ॒भे इति॑ । वृतौ॑ । सं॒य॒ती इति॑ स॒म्ऽय॒ती । सम् । ज॒या॒ति॒ । प्रि॒यः । सूर्ये॑ । प्रि॒यः । अ॒ग्ना । भ॒वा॒ति॒ । यः । इन्द्रा॑य । सु॒तऽसो॑मः । ददा॑शत् ॥
पुष्यात् । क्षेमे । अभि । योगे । भवाति । उभे इति । वृतौ । संयती इति सम्ऽयती । सम् । जयाति । प्रियः । सूर्ये । प्रियः । अग्ना । भवाति । यः । इन्द्राय । सुतऽसोमः । ददाशत् ॥