rigveda/5/36/4

ए॒ष ग्रावे॑व जरि॒ता त॑ इ॒न्द्रेय॑र्ति॒ वाचं॑ बृ॒हदा॑शुषा॒णः। प्र स॒व्येन॑ मघव॒न्यंसि॑ रा॒यः प्र द॑क्षि॒णिद्ध॑रिवो॒ मा वि वे॑नः ॥४॥

ए॒षः । ग्रावा॑ऽइव । ज॒रि॒ता । ते॒ । इ॒न्द्र॒ । इय॑र्ति । वाच॑म् । बृ॒हत् । आ॒शु॒षा॒णः । प्र । से॒व्येन॑ । म॒घ॒ऽव॒न् । यंसि॑ । रा॒यः । प्र । द॒क्षि॒णित् । ह॒रि॒ऽवः॒ । मा । वि । वे॒नः॒ ॥

ऋषिः - प्रभूवसुराङ्गिरसः

देवता - इन्द्र:

छन्दः - त्रिष्टुप्

स्वरः - धैवतः

स्वर सहित मन्त्र

ए॒ष ग्रावे॑व जरि॒ता त॑ इ॒न्द्रेय॑र्ति॒ वाचं॑ बृ॒हदा॑शुषा॒णः। प्र स॒व्येन॑ मघव॒न्यंसि॑ रा॒यः प्र द॑क्षि॒णिद्ध॑रिवो॒ मा वि वे॑नः ॥४॥

स्वर सहित पद पाठ

ए॒षः । ग्रावा॑ऽइव । ज॒रि॒ता । ते॒ । इ॒न्द्र॒ । इय॑र्ति । वाच॑म् । बृ॒हत् । आ॒शु॒षा॒णः । प्र । से॒व्येन॑ । म॒घ॒ऽव॒न् । यंसि॑ । रा॒यः । प्र । द॒क्षि॒णित् । ह॒रि॒ऽवः॒ । मा । वि । वे॒नः॒ ॥


स्वर रहित मन्त्र

एष ग्रावेव जरिता त इन्द्रेयर्ति वाचं बृहदाशुषाणः। प्र सव्येन मघवन्यंसि रायः प्र दक्षिणिद्धरिवो मा वि वेनः ॥४॥


स्वर रहित पद पाठ

एषः । ग्रावाऽइव । जरिता । ते । इन्द्र । इयर्ति । वाचम् । बृहत् । आशुषाणः । प्र । सेव्येन । मघऽवन् । यंसि । रायः । प्र । दक्षिणित् । हरिऽवः । मा । वि । वेनः ॥