rigveda/5/35/7

अ॒स्माक॑मिन्द्र दु॒ष्टरं॑ पुरो॒यावा॑नमा॒जिषु॑। स॒यावा॑नं॒ धने॑धने वाज॒यन्त॑मवा॒ रथ॑म् ॥७॥

अ॒स्माक॑म् । इ॒न्द्र॒ । दु॒स्तर॑म् । पु॒रः॒ऽयावा॑नम् । आ॒जिषु॑ । स॒ऽयावा॑नम् । धने॑ऽधने । वा॒ज॒ऽयन्त॑म् । अ॒व॒ । रथ॑म् ॥

ऋषिः - प्रभूवसुराङ्गिरसः

देवता - इन्द्र:

छन्दः - स्वराडुष्निक्

स्वरः - ऋषभः

स्वर सहित मन्त्र

अ॒स्माक॑मिन्द्र दु॒ष्टरं॑ पुरो॒यावा॑नमा॒जिषु॑। स॒यावा॑नं॒ धने॑धने वाज॒यन्त॑मवा॒ रथ॑म् ॥७॥

स्वर सहित पद पाठ

अ॒स्माक॑म् । इ॒न्द्र॒ । दु॒स्तर॑म् । पु॒रः॒ऽयावा॑नम् । आ॒जिषु॑ । स॒ऽयावा॑नम् । धने॑ऽधने । वा॒ज॒ऽयन्त॑म् । अ॒व॒ । रथ॑म् ॥


स्वर रहित मन्त्र

अस्माकमिन्द्र दुष्टरं पुरोयावानमाजिषु। सयावानं धनेधने वाजयन्तमवा रथम् ॥७॥


स्वर रहित पद पाठ

अस्माकम् । इन्द्र । दुस्तरम् । पुरःऽयावानम् । आजिषु । सऽयावानम् । धनेऽधने । वाजऽयन्तम् । अव । रथम् ॥