rigveda/5/34/7

समीं॑ प॒णेर॑जति॒ भोज॑नं मु॒षे वि दा॒शुषे॑ भजति सू॒नरं॒ वसु॑। दु॒र्गे च॒न ध्रि॑यते॒ विश्व॒ आ पु॒रु जनो॒ यो अ॑स्य॒ तवि॑षी॒मचु॑क्रुधत् ॥७॥

सम् । ई॒म् । प॒णेः । अ॒ज॒ति॒ । भोज॑नम् । मु॒षे । वि । दा॒शुषे॑ । भ॒ज॒ति॒ । सू॒नर॑म् । वसु॑ । दुः॒ऽगे । च॒न । ध्रि॒य॒ते॒ । विश्वः॑ । आ । पु॒रु । जनः॑ । यः । अ॒स्य॒ । तवि॑षीम् । अचु॑क्रुधत् ॥

ऋषिः - संवरणः प्राजापत्यः

देवता - इन्द्र:

छन्दः - निचृज्जगती

स्वरः - निषादः

स्वर सहित मन्त्र

समीं॑ प॒णेर॑जति॒ भोज॑नं मु॒षे वि दा॒शुषे॑ भजति सू॒नरं॒ वसु॑। दु॒र्गे च॒न ध्रि॑यते॒ विश्व॒ आ पु॒रु जनो॒ यो अ॑स्य॒ तवि॑षी॒मचु॑क्रुधत् ॥७॥

स्वर सहित पद पाठ

सम् । ई॒म् । प॒णेः । अ॒ज॒ति॒ । भोज॑नम् । मु॒षे । वि । दा॒शुषे॑ । भ॒ज॒ति॒ । सू॒नर॑म् । वसु॑ । दुः॒ऽगे । च॒न । ध्रि॒य॒ते॒ । विश्वः॑ । आ । पु॒रु । जनः॑ । यः । अ॒स्य॒ । तवि॑षीम् । अचु॑क्रुधत् ॥


स्वर रहित मन्त्र

समीं पणेरजति भोजनं मुषे वि दाशुषे भजति सूनरं वसु। दुर्गे चन ध्रियते विश्व आ पुरु जनो यो अस्य तविषीमचुक्रुधत् ॥७॥


स्वर रहित पद पाठ

सम् । ईम् । पणेः । अजति । भोजनम् । मुषे । वि । दाशुषे । भजति । सूनरम् । वसु । दुःऽगे । चन । ध्रियते । विश्वः । आ । पुरु । जनः । यः । अस्य । तविषीम् । अचुक्रुधत् ॥