rigveda/5/32/10
ऋषिः - गातुरात्रेयः
देवता - इन्द्र:
छन्दः - स्वराट्पङ्क्ति
स्वरः - पञ्चमः
नि । अ॒स्मै॒ । दे॒वी । स्वऽधि॑तिः । जि॒ही॒ते॒ । इन्द्रा॑य । गा॒तुः । उ॒श॒तीऽइ॑व । ये॒मे॒ । सम् । यत् । ओजः॑ । यु॒वते॑ । विश्व॑म् । आ॒भिः॒ । अनु॑ । स्व॒धाऽव्ने॑ । क्षि॒तयः॑ । न॒म॒न्त॒ ॥
नि । अस्मै । देवी । स्वऽधितिः । जिहीते । इन्द्राय । गातुः । उशतीऽइव । येमे । सम् । यत् । ओजः । युवते । विश्वम् । आभिः । अनु । स्वधाऽव्ने । क्षितयः । नमन्त ॥