rigveda/5/31/10

वात॑स्य यु॒क्तान्त्सु॒युज॑श्चि॒दश्वा॑न्क॒विश्चि॑दे॒षो अ॑जगन्नव॒स्युः। विश्वे॑ ते॒ अत्र॑ म॒रुतः॒ सखा॑य॒ इन्द्र॒ ब्रह्मा॑णि॒ तवि॑षीमवर्धन् ॥१०॥

वात॑स्य । यु॒क्तान् । सु॒ऽयुजः॑ । चि॒त् । अश्वा॑न् । क॒विः । चि॒त् । ए॒षः । अ॒ज॒ग॒न् । अ॒व॒स्युः । विश्वे॑ । ते॒ । अत्र॑ । म॒रुतः॑ । सखा॑यः । इन्द्र॑ । ब्रह्मा॑णि । तवि॑षीम् । अ॒व॒र्ध॒न् ॥

ऋषिः - अमहीयुः

देवता - इन्द्रः, इन्द्र कुत्सो वा, इन्द्र उशना वा

छन्दः - स्वराट्पङ्क्ति

स्वरः - पञ्चमः

स्वर सहित मन्त्र

वात॑स्य यु॒क्तान्त्सु॒युज॑श्चि॒दश्वा॑न्क॒विश्चि॑दे॒षो अ॑जगन्नव॒स्युः। विश्वे॑ ते॒ अत्र॑ म॒रुतः॒ सखा॑य॒ इन्द्र॒ ब्रह्मा॑णि॒ तवि॑षीमवर्धन् ॥१०॥

स्वर सहित पद पाठ

वात॑स्य । यु॒क्तान् । सु॒ऽयुजः॑ । चि॒त् । अश्वा॑न् । क॒विः । चि॒त् । ए॒षः । अ॒ज॒ग॒न् । अ॒व॒स्युः । विश्वे॑ । ते॒ । अत्र॑ । म॒रुतः॑ । सखा॑यः । इन्द्र॑ । ब्रह्मा॑णि । तवि॑षीम् । अ॒व॒र्ध॒न् ॥


स्वर रहित मन्त्र

वातस्य युक्तान्त्सुयुजश्चिदश्वान्कविश्चिदेषो अजगन्नवस्युः। विश्वे ते अत्र मरुतः सखाय इन्द्र ब्रह्माणि तविषीमवर्धन् ॥१०॥


स्वर रहित पद पाठ

वातस्य । युक्तान् । सुऽयुजः । चित् । अश्वान् । कविः । चित् । एषः । अजगन् । अवस्युः । विश्वे । ते । अत्र । मरुतः । सखायः । इन्द्र । ब्रह्माणि । तविषीम् । अवर्धन् ॥