rigveda/5/30/7

वि षू मृधो॑ ज॒नुषा॒ दान॒मिन्व॒न्नह॒न्गवा॑ मघवन्त्संचका॒नः। अत्रा॑ दा॒सस्य॒ नमु॑चेः॒ शिरो॒ यदव॑र्तयो॒ मन॑वे गा॒तुमि॒च्छन् ॥७॥

वि । सु । मृधः॑ । ज॒नुषा॑ । दान॑म् । इन्व॑न् । अह॑न् । गवा॑ । म॒घ॒ऽव॒न् । सम्॒ऽच॒का॒नः । अत्र॑ । दा॒सस्य॑ । नमु॑चेः । शिरः॑ । यत् । अव॑र्तयः । मन॑वे । गा॒तुम् । इ॒च्छन् ॥

ऋषिः - बभ्रु रात्रेयः

देवता - इन्द्र ऋणञ्चयश्च

छन्दः - निचृत्त्रिष्टुप्

स्वरः - धैवतः

स्वर सहित मन्त्र

वि षू मृधो॑ ज॒नुषा॒ दान॒मिन्व॒न्नह॒न्गवा॑ मघवन्त्संचका॒नः। अत्रा॑ दा॒सस्य॒ नमु॑चेः॒ शिरो॒ यदव॑र्तयो॒ मन॑वे गा॒तुमि॒च्छन् ॥७॥

स्वर सहित पद पाठ

वि । सु । मृधः॑ । ज॒नुषा॑ । दान॑म् । इन्व॑न् । अह॑न् । गवा॑ । म॒घ॒ऽव॒न् । सम्॒ऽच॒का॒नः । अत्र॑ । दा॒सस्य॑ । नमु॑चेः । शिरः॑ । यत् । अव॑र्तयः । मन॑वे । गा॒तुम् । इ॒च्छन् ॥


स्वर रहित मन्त्र

वि षू मृधो जनुषा दानमिन्वन्नहन्गवा मघवन्त्संचकानः। अत्रा दासस्य नमुचेः शिरो यदवर्तयो मनवे गातुमिच्छन् ॥७॥


स्वर रहित पद पाठ

वि । सु । मृधः । जनुषा । दानम् । इन्वन् । अहन् । गवा । मघऽवन् । सम्ऽचकानः । अत्र । दासस्य । नमुचेः । शिरः । यत् । अवर्तयः । मनवे । गातुम् । इच्छन् ॥