rigveda/5/3/6

व॒यम॑ग्ने वनुयाम॒ त्वोता॑ वसू॒यवो॑ ह॒विषा॒ बुध्य॑मानाः। व॒यं स॑म॒र्ये वि॒दथे॒ष्वह्नां॑ व॒यं रा॒या स॑हसस्पुत्र॒ मर्ता॑न् ॥६॥

व॒यम् । अ॒ग्ने॒ । व॒नु॒या॒म॒ । त्वाऽऊ॑ताः । व॒सु॒ऽयवः॑ । ह॒विषा॑ । बुध्य॑मानाः । व॒यम् । स॒ऽम॒र्ये । वि॒दथे॑षु । अह्ना॑म् । व॒यम् । रा॒या । स॒ह॒सः॒ । पु॒त्र॒ । मर्ता॑न् ॥

ऋषिः - वसुश्रुत आत्रेयः

देवता - अग्निः

छन्दः - स्वराट्पङ्क्ति

स्वरः - धैवतः

स्वर सहित मन्त्र

व॒यम॑ग्ने वनुयाम॒ त्वोता॑ वसू॒यवो॑ ह॒विषा॒ बुध्य॑मानाः। व॒यं स॑म॒र्ये वि॒दथे॒ष्वह्नां॑ व॒यं रा॒या स॑हसस्पुत्र॒ मर्ता॑न् ॥६॥

स्वर सहित पद पाठ

व॒यम् । अ॒ग्ने॒ । व॒नु॒या॒म॒ । त्वाऽऊ॑ताः । व॒सु॒ऽयवः॑ । ह॒विषा॑ । बुध्य॑मानाः । व॒यम् । स॒ऽम॒र्ये । वि॒दथे॑षु । अह्ना॑म् । व॒यम् । रा॒या । स॒ह॒सः॒ । पु॒त्र॒ । मर्ता॑न् ॥


स्वर रहित मन्त्र

वयमग्ने वनुयाम त्वोता वसूयवो हविषा बुध्यमानाः। वयं समर्ये विदथेष्वह्नां वयं राया सहसस्पुत्र मर्तान् ॥६॥


स्वर रहित पद पाठ

वयम् । अग्ने । वनुयाम । त्वाऽऊताः । वसुऽयवः । हविषा । बुध्यमानाः । वयम् । सऽमर्ये । विदथेषु । अह्नाम् । वयम् । राया । सहसः । पुत्र । मर्तान् ॥