rigveda/5/20/3

होता॑रं त्वा वृणीम॒हेऽग्ने॒ दक्ष॑स्य॒ साध॑नम्। य॒ज्ञेषु॑ पू॒र्व्यं गि॒रा प्रय॑स्वन्तो हवामहे ॥३॥

होता॑रम् । त्वा॒ । वृ॒णी॒म॒हे॒ । अग्ने॑ । दक्ष॑स्य । साध॑नम् । य॒ज्ञेषु॑ । पू॒र्व्यम् । गि॒रा । प्रय॑स्वन्तः । ह॒वा॒म॒हे॒ ॥

ऋषिः - प्रयस्वन्तः आत्रेयः

देवता - अग्निः

छन्दः - विराडनुष्टुप्

स्वरः - गान्धारः

स्वर सहित मन्त्र

होता॑रं त्वा वृणीम॒हेऽग्ने॒ दक्ष॑स्य॒ साध॑नम्। य॒ज्ञेषु॑ पू॒र्व्यं गि॒रा प्रय॑स्वन्तो हवामहे ॥३॥

स्वर सहित पद पाठ

होता॑रम् । त्वा॒ । वृ॒णी॒म॒हे॒ । अग्ने॑ । दक्ष॑स्य । साध॑नम् । य॒ज्ञेषु॑ । पू॒र्व्यम् । गि॒रा । प्रय॑स्वन्तः । ह॒वा॒म॒हे॒ ॥


स्वर रहित मन्त्र

होतारं त्वा वृणीमहेऽग्ने दक्षस्य साधनम्। यज्ञेषु पूर्व्यं गिरा प्रयस्वन्तो हवामहे ॥३॥


स्वर रहित पद पाठ

होतारम् । त्वा । वृणीमहे । अग्ने । दक्षस्य । साधनम् । यज्ञेषु । पूर्व्यम् । गिरा । प्रयस्वन्तः । हवामहे ॥