rigveda/5/2/6

व॒सां राजा॑नं वस॒तिं जना॑ना॒मरा॑तयो॒ नि द॑धु॒र्मर्त्ये॑षु। ब्रह्मा॒ण्यत्रे॒रव॒ तं सृ॑जन्तु निन्दि॒तारो॒ निन्द्या॑सो भवन्तु ॥६॥

व॒साम् । राजा॑नम् । व॒स॒तिम् । जना॑नाम् । अरा॑तयः । नि । द॒धुः॒ । मर्त्ये॑षु । ब्रह्मा॑णि । अत्रेः॑ । अव॑ । तम् । सृ॒ज॒न्तु॒ । नि॒न्दि॒तारः॑ । निन्द्या॑सः । भ॒व॒न्तु॒ ॥

ऋषिः - कुमार आत्रेयो वृषो वा जार उभौ वा

देवता - अग्निः

छन्दः - भुरिक्पङ्क्ति

स्वरः - पञ्चमः

स्वर सहित मन्त्र

व॒सां राजा॑नं वस॒तिं जना॑ना॒मरा॑तयो॒ नि द॑धु॒र्मर्त्ये॑षु। ब्रह्मा॒ण्यत्रे॒रव॒ तं सृ॑जन्तु निन्दि॒तारो॒ निन्द्या॑सो भवन्तु ॥६॥

स्वर सहित पद पाठ

व॒साम् । राजा॑नम् । व॒स॒तिम् । जना॑नाम् । अरा॑तयः । नि । द॒धुः॒ । मर्त्ये॑षु । ब्रह्मा॑णि । अत्रेः॑ । अव॑ । तम् । सृ॒ज॒न्तु॒ । नि॒न्दि॒तारः॑ । निन्द्या॑सः । भ॒व॒न्तु॒ ॥


स्वर रहित मन्त्र

वसां राजानं वसतिं जनानामरातयो नि दधुर्मर्त्येषु। ब्रह्माण्यत्रेरव तं सृजन्तु निन्दितारो निन्द्यासो भवन्तु ॥६॥


स्वर रहित पद पाठ

वसाम् । राजानम् । वसतिम् । जनानाम् । अरातयः । नि । दधुः । मर्त्येषु । ब्रह्माणि । अत्रेः । अव । तम् । सृजन्तु । निन्दितारः । निन्द्यासः । भवन्तु ॥