rigveda/5/2/1
ऋषिः - कुमार आत्रेयो वृषो वा जार उभौ वा
देवता - अग्निः
छन्दः - त्रिष्टुप्
स्वरः - धैवतः
कु॒मा॒रम् । मा॒ता । यु॒व॒तिः । सम्ऽउ॑ब्धम् । गुहा॑ । बि॒भ॒र्ति॒ । न । द॒दा॒ति॒ । पि॒त्रे । अनी॑कम् । अ॒स्य॒ । न । मि॒नत् । जना॑सः । पु॒रः । प॒श्य॒न्ति॒ । निऽहि॑तम् । अ॒र॒तौ ॥
कुमारम् । माता । युवतिः । सम्ऽउब्धम् । गुहा । बिभर्ति । न । ददाति । पित्रे । अनीकम् । अस्य । न । मिनत् । जनासः । पुरः । पश्यन्ति । निऽहितम् । अरतौ ॥