rigveda/5/16/3

अ॒स्य स्तोमे॑ म॒घोनः॑ स॒ख्ये वृ॒द्धशो॑चिषः। विश्वा॒ यस्मि॑न्तुवि॒ष्वणि॒ सम॒र्ये शुष्म॑माद॒धुः ॥३॥

अ॒स्य । स्तोमे॑ । म॒घोनः॑ । स॒ख्ये । वृ॒द्धऽशो॑चिषः । विश्वा॑ । यस्मि॑न् । तु॒वि॒ऽस्वणि॑ । सम् । अ॒र्ये । शुष्म॑म् । आ॒ऽद॒धुः ॥

ऋषिः - पुरुरात्रेयः

देवता - अग्निः

छन्दः - विराट्त्रिष्टुप्

स्वरः - धैवतः

स्वर सहित मन्त्र

अ॒स्य स्तोमे॑ म॒घोनः॑ स॒ख्ये वृ॒द्धशो॑चिषः। विश्वा॒ यस्मि॑न्तुवि॒ष्वणि॒ सम॒र्ये शुष्म॑माद॒धुः ॥३॥

स्वर सहित पद पाठ

अ॒स्य । स्तोमे॑ । म॒घोनः॑ । स॒ख्ये । वृ॒द्धऽशो॑चिषः । विश्वा॑ । यस्मि॑न् । तु॒वि॒ऽस्वणि॑ । सम् । अ॒र्ये । शुष्म॑म् । आ॒ऽद॒धुः ॥


स्वर रहित मन्त्र

अस्य स्तोमे मघोनः सख्ये वृद्धशोचिषः। विश्वा यस्मिन्तुविष्वणि समर्ये शुष्ममादधुः ॥३॥


स्वर रहित पद पाठ

अस्य । स्तोमे । मघोनः । सख्ये । वृद्धऽशोचिषः । विश्वा । यस्मिन् । तुविऽस्वणि । सम् । अर्ये । शुष्मम् । आऽदधुः ॥