rigveda/5/12/2

ऋ॒तं चि॑कित्व ऋ॒तमिच्चि॑किद्ध्यृ॒तस्य॒ धारा॒ अनु॑ तृन्धि पू॒र्वीः। नाहं या॒तुं सह॑सा॒ न द्व॒येन॑ ऋ॒तं स॑पाम्यरु॒षस्य॒ वृष्णः॑ ॥२॥

ऋ॒तम् । चि॒कि॒त्वः॒ । ऋ॒तम् । इत् । चि॒कि॒द्धि॒ । ऋ॒तस्य॑ । धाराः॑ । अनु॑ । तृ॒न्धि॒ । पू॒र्वीः । न । अ॒हम् । या॒तुम् । सह॑सा । न । द्व॒येन॑ । ऋ॒तम् । स॒पा॒मि॒ । अ॒रु॒षस्य॑ । वृष्णः॑ ॥

ऋषिः - सुतम्भर आत्रेयः

देवता - अग्निः

छन्दः - स्वराट्पङ्क्ति

स्वरः - पञ्चमः

स्वर सहित मन्त्र

ऋ॒तं चि॑कित्व ऋ॒तमिच्चि॑किद्ध्यृ॒तस्य॒ धारा॒ अनु॑ तृन्धि पू॒र्वीः। नाहं या॒तुं सह॑सा॒ न द्व॒येन॑ ऋ॒तं स॑पाम्यरु॒षस्य॒ वृष्णः॑ ॥२॥

स्वर सहित पद पाठ

ऋ॒तम् । चि॒कि॒त्वः॒ । ऋ॒तम् । इत् । चि॒कि॒द्धि॒ । ऋ॒तस्य॑ । धाराः॑ । अनु॑ । तृ॒न्धि॒ । पू॒र्वीः । न । अ॒हम् । या॒तुम् । सह॑सा । न । द्व॒येन॑ । ऋ॒तम् । स॒पा॒मि॒ । अ॒रु॒षस्य॑ । वृष्णः॑ ॥


स्वर रहित मन्त्र

ऋतं चिकित्व ऋतमिच्चिकिद्ध्यृतस्य धारा अनु तृन्धि पूर्वीः। नाहं यातुं सहसा न द्वयेन ऋतं सपाम्यरुषस्य वृष्णः ॥२॥


स्वर रहित पद पाठ

ऋतम् । चिकित्वः । ऋतम् । इत् । चिकिद्धि । ऋतस्य । धाराः । अनु । तृन्धि । पूर्वीः । न । अहम् । यातुम् । सहसा । न । द्वयेन । ऋतम् । सपामि । अरुषस्य । वृष्णः ॥