rigveda/5/1/8

मा॒र्जा॒ल्यो॑ मृज्यते॒ स्वे दमू॑नाः कविप्रश॒स्तो अति॑थिः शि॒वो नः॑। स॒हस्र॑शृङ्गो वृष॒भस्तदो॑जा॒ विश्वाँ॑ अग्ने॒ सह॑सा॒ प्रास्य॒न्यान् ॥८॥

मा॒र्जा॒ल्यः॑ । मृ॒ज्य॒ते॒ । स्वे । दमू॑नाः । क॒वि॒ऽप्र॒श॒स्तः । अति॑थिः । शि॒वः । नः॒ । स॒हस्र॑ऽशृङ्गः । वृ॒ष॒भः । तत्ऽओ॑जा । विश्वा॑न् । अ॒ग्ने॒ । सह॑सा । प्र । अ॒सि॒ । अ॒न्यान् ॥

ऋषिः - बुद्धगविष्ठरावात्रेयी

देवता - अग्निः

छन्दः - स्वराट्पङ्क्ति

स्वरः - पञ्चमः

स्वर सहित मन्त्र

मा॒र्जा॒ल्यो॑ मृज्यते॒ स्वे दमू॑नाः कविप्रश॒स्तो अति॑थिः शि॒वो नः॑। स॒हस्र॑शृङ्गो वृष॒भस्तदो॑जा॒ विश्वाँ॑ अग्ने॒ सह॑सा॒ प्रास्य॒न्यान् ॥८॥

स्वर सहित पद पाठ

मा॒र्जा॒ल्यः॑ । मृ॒ज्य॒ते॒ । स्वे । दमू॑नाः । क॒वि॒ऽप्र॒श॒स्तः । अति॑थिः । शि॒वः । नः॒ । स॒हस्र॑ऽशृङ्गः । वृ॒ष॒भः । तत्ऽओ॑जा । विश्वा॑न् । अ॒ग्ने॒ । सह॑सा । प्र । अ॒सि॒ । अ॒न्यान् ॥


स्वर रहित मन्त्र

मार्जाल्यो मृज्यते स्वे दमूनाः कविप्रशस्तो अतिथिः शिवो नः। सहस्रशृङ्गो वृषभस्तदोजा विश्वाँ अग्ने सहसा प्रास्यन्यान् ॥८॥


स्वर रहित पद पाठ

मार्जाल्यः । मृज्यते । स्वे । दमूनाः । कविऽप्रशस्तः । अतिथिः । शिवः । नः । सहस्रऽशृङ्गः । वृषभः । तत्ऽओजा । विश्वान् । अग्ने । सहसा । प्र । असि । अन्यान् ॥