rigveda/4/9/1
ऋषिः - वामदेवो गौतमः
देवता - अग्निः
छन्दः - गायत्री
स्वरः - षड्जः
अग्ने॑ । मृ॒ळ । म॒हान् । अ॒सि॒ । यः । ई॒म् । आ । दे॒व॒ऽयुम् । जन॑म् । इ॒येथ॑ । ब॒र्हिः । आ॒ऽसद॑म् ॥
अग्ने । मृळ । महान् । असि । यः । ईम् । आ । देवऽयुम् । जनम् । इयेथ । बर्हिः । आऽसदम् ॥