rigveda/4/7/9
ऋषिः - वामदेवो गौतमः
देवता - अग्निः
छन्दः - निचृत्त्रिष्टुप्
स्वरः - धैवतः
कृ॒ष्णम् । ते॒ । एम॑ । रुश॑तः । पु॒रः । भाः । च॒रि॒ष्णु । अ॒र्चिः । वपु॑षाम् । इत् । एक॑म् । यत् । अप्र॑ऽवीता । दध॑ते । ह॒ । गर्भ॑म् । स॒द्यः । चि॒त् । जा॒तः । भव॑सि । इत् । ऊँ॒ इति॑ । दू॒तः ॥
कृष्णम् । ते । एम । रुशतः । पुरः । भाः । चरिष्णु । अर्चिः । वपुषाम् । इत् । एकम् । यत् । अप्रऽवीता । दधते । ह । गर्भम् । सद्यः । चित् । जातः । भवसि । इत् । ऊँ इति । दूतः ॥